|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.147. अध्यायः 147
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ब्राह्मणादिधर्मनिरूपणपूर्वकं शूद्रस्य यतिशुश्रूषाप्रकारनिरूपणम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`पुराशर उवाच।
क्षत्रा आरम्भयज्ञास्तु वीर्ययज्ञा विशः स्मृताः।
शूद्रा परिचरायज्ञा जपयज्ञास्तु ब्राह्मणाः॥ 13-147-1(87127)
शुश्रूषाजीविनः शूद्रा वैश्या विपणिजीविनः।
अनिष्टनिग्रहः क्षत्रा विप्राः स्वाध्यायजीविनः॥ 13-147-2(87128)
तपसा शोभते विप्रो राजन्यः पालनादिभिः।
आतिथ्येन तथा वैश्यः शूद्रो दास्येन शोभते॥ 13-147-3(87129)
यतात्मना तु शूद्रेण शुश्रूषा नित्यमेव च।
कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु॥ 13-147-4(87130)
अशक्तेन त्रिवर्गस्य सेव्या ह्याश्रमवासिनः।
यथाशक्यं यथाप्रज्ञं यथाधर्मं यथाश्रुतम्॥ 13-147-5(87131)
विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे॥ 13-147-6(87132)
आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम्।
प्रधानमिति वर्ण्यन्ते शिष्टाः शास्त्रविनिश्चये॥ 13-147-7(87133)
यच्चोपदिश्यते शिष्टैः श्रुतिस्मृतिविधानतः।
तथाऽऽस्थेयमशक्तेन स धर्म इति निश्चितः॥ 13-147-8(87134)
अतोऽन्यथा तु कुर्वाणः श्रेयो नाप्नोति मानवः।
तस्माद्भिक्षुषु शूद्रेण कार्यमात्महितं सदा॥ 13-147-9(87135)
इह यत्कुरुते श्रेयस्तत्प्रेत्य समुपाश्नुते।
तच्चानसूयता कार्यं कर्तव्यं यद्धि मन्यते॥ 13-147-10(87136)
असूयता तु तस्येह फलं दुःखादवाप्यते।
प्रियवादी जितक्रोधो वीततन्द्रीरमत्सरः॥ 13-147-11(87137)
क्षमावाञ्शीलसम्पन्नः सत्यधर्मपरायणः।
आपद्भावेन कुर्याद्धि शुश्रूषां भिक्षुकाश्रमे॥ 13-147-12(87138)
अयं मे परमो धर्मस्त्वनेनेदं सुदुष्करम्।
संसारसागरं घोरं तरिष्यामि न संशयः॥ 13-147-13(87139)
विभयो देहमुत्सृज्य यास्यामि परमां गतिम्।
नातः परं ममाप्यन्य एष धर्मः सनातनः॥ 13-147-14(87140)
एवं सञ्चिन्त्य मनसा शूद्रो बुद्धिसमाधिना।
कुर्यादविमना नित्यं शुश्रूषाधर्ममुत्तमम्॥ 13-147-15(87141)
शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा।
शमान्वितेन दान्तेन कार्याकार्यविदा सदा॥ 13-147-16(87142)
सर्वकार्येषु कृत्यानि कृतान्येव तु दुर्शयेत्।
यथा प्रियो भवेद्भिक्षुस्तथा कार्यं प्रसाधयेत्॥ 13-147-17(87143)
यदकल्प्यं भवेद्भिक्षोर्न तत्कार्यं समाचरेत्।
यथाऽऽश्रमस्याविरुद्धं धर्ममात्राभिसंहितम्॥ 13-147-18(87144)
तत्कार्यमविचारेण नित्यमेव शुभार्थिना।
मनसा कर्ममा वाचा नित्यमेव प्रसादयेत्॥ 13-147-19(87145)
स्थातव्यं तिष्ठमानेषु गच्छमानाननुव्रजेत्।
आसीनेष्वासितव्यं च नित्यमेवानुवर्तता॥ 13-147-20(87146)
धर्मलब्धेन स्नेहेन पादौ सम्पीडयेत्सदा।
उद्वर्तनादींश्च तथा कुर्यादप्रतिचोदितः॥ 13-147-21(87147)
नैजकार्याणि कृत्वा तु नित्यं चैवानुचोदितः।
यथाविधिरुपस्पृश्य संन्यस्य जलभाजनम्॥ 13-147-22(87148)
भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम्।
ब्रह्मपूर्वान्गुरूंस्तत्र प्रणम्यि नियतेन्द्रियः॥ 13-147-23(87149)
तथाऽऽचार्यपुरोगाणामनुकुर्यान्नमस्क्रियाम्।
स्वधर्मचारिणां चापि सुखं पृष्ट्वाऽभिवाद्य च॥ 13-147-24(87150)
यो भवेत्पूर्वसंसिद्धस्तुल्यकर्मा भवेत्सदा।
तस्मै प्रणामः कर्तव्यो नेतरेषु कदाचन॥ 13-147-25(87151)
अनुक्त्वा तेषु चोत्थाय नित्यमेव यतव्रतः।
सम्मार्जनमथो गत्वा कृत्वा चाप्युपलेपनम्॥ 13-147-26(87152)
ततः पुष्पबलिं दद्यापुष्पाण्यादाय धर्मतः।
निष्क्रम्यावसथात्तूर्णमन्यत्कर्म समाचरेत्॥ 13-147-27(87153)
यथोपघातो न भवेत्स्वाध्यायेऽऽश्रमिणां तथा।
उपघातं तु कुर्वाण एनसा सम्प्रयुज्यते।
तथाऽऽत्मा प्रणिधातव्यो यथा ते प्रीतिमाप्नुयुः॥ 13-147-28(87154)
परिचारकोऽहं वर्णानां त्रयाणां धर्मतः स्मृतः।
किमुताश्रमवृद्धानां यथालब्धोपजीविनाम्॥ 13-147-29(87155)
भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनम्।
विशेषेण मया कार्या शुश्रूषा नियतात्मना॥ 13-147-30(87156)
तेषां प्रसादात्तपसा प्राप्स्यामीष्टां शुभां गतिम्।
एवमेतद्विनिश्चित्य यदि सेवेत भिक्षुकान्।
विधिना स्वोपदिष्टेन प्राप्नोति परमां गतिम्॥' ॥ 13-147-31(87157)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः॥ 147 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-147-1 हविर्यज्ञा विशः स्मृता इति ङ.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|